Gopal Kavach is a kavach, a hymn of protection, dedicated to Shri Gopal. Play the video and read along with the complete Sanskrit text below.
श्री गोपाल कवचम् का संपूर्ण पाठ नीचे दिया गया है। वीडियो चलाएँ और साथ-साथ पढ़ें।
Gopal Kavach Lyrics
श्रीगोपालकवचम्
श्रीमहादेव उवाच ।
अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः ।
यस्य स्मरणमात्रेण जीवन्मुक्तो भवेन्नरः ॥ १॥
शृणु देवि प्रवक्ष्यामि सावधानावधारय ।
नारदोऽस्य ऋषिर्देवि छेन्दोऽनुष्टुबुदाहृतम् ॥ २॥
देवता बालकृष्णश्च चतुर्वर्गप्रदायकः ।
ॐ अस्य श्रीगोणालकवचस्य नारद ऋषिः ।
अनुष्टुप्छन्दः । श्रीबालकृष्णो देवता ।
धर्मार्थकाममोक्षार्थे जपे विनियोगः ।
शिरो मे बालकृष्णश्च पातु नित्यं मम श्रुती ॥ ३॥
नारायणः पातु कण्ठं गोपीवन्द्यः कपोलकम् ।
नासिके मधुहा पातु चक्षुषी नदनन्दनः ॥ ४॥
जनार्दनः पातु दन्तानधरं माधवस्तथा ।
ऊर्ध्वोष्ठं पातु वाराहश्चिबुकं केशिसूदनः ॥ ५॥
हृदयं गोपिकानाथो नाभिं सेतुप्रदः सदा ।
हस्तौ गोवर्धनधरः पादौ पीताम्बरोऽवतु ॥ ६॥
कराङ्गुलीः श्रीधरो मे पादाङ्गुल्यः कृपामयः ।
लिङ्गं पातु गदापाणिर्बालक्रीडामनोरमः ॥ ७॥
जगन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्चिमम् ।
उत्तरं कैटभारिश्च दक्षिणं हनुमत्प्रभुः ॥ ८॥
आग्नेय्यां पातु गोविन्दो नैरृत्यां पातु केशवः ।
वायव्यां पातु दैत्यारिरैशान्यां गोपनन्दनः ॥ ९॥
ऊर्ध्व पातु प्रलम्बारिरधः कैटभमर्दनः ।
शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥ १०॥
शेषः पातु निरालम्बे जाग्रद्भावे ह्यपाम्पतिः ।
भोजने केशिहा पातु कृष्णः सर्वाङ्गसन्धिषु ॥ ११॥
गणनासु निशानाथो दिवानाथो दिनक्षये ।
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ १२॥
यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः ।
तस्याशु विपदो देवि नश्यन्ति रिपुसङ्घतः ॥ १३॥
अन्ते गोपालचरणं प्राप्नोति परमेश्वरि ।
त्रिसन्ध्यमेकसन्ध्यं वा यः षठेच्छृणुयादपि ॥ १४॥
तं सर्वदा रमानाथः परिपाति चतुर्भुजः ।
अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥ १५॥
सर्वं तस्य वृथा देवि जपहोमार्चनादिकम् ।
सशस्त्रघातं सम्प्राप्य मृत्युमेति न संशयः ॥ १६॥
इति नारदपञ्चरात्रे ज्ञानामृतसारे चतुर्थरात्रे
श्रीगोपालकवचं सम्पूर्णम् ।
When to recite
- In the morning after bathing, before starting the day.
- On the day or festival dedicated to Shri Gopal.
- Whenever you seek the protection of Shri Gopal.
Make it part of your day
Subscribe on YouTube for new Super Fast Chalisa, Aarti and 108 Times Mantras every week.
Subscribe to Bhakti Bhajan MantraMore to listen to

HANUMAN CHALISA SUPER FAST | Hanuman Chalisa | श्री हनुमान चालीसा

Om Kleem Krishnaya Namaha 108 Times Fast | Om Kleem Krishnaya Namaha

Om Shree Shyam Devay Namah 108 Times : Fast : Shri Khatu Shyam Mantra

Khatu Shyam Chalisa Superfast : Khatu Shyam Chalisa : Shyam Chalisa

Shri Radha Chalisa Fast | Radha Chalisa | श्री राधा चालीसा

Shri Giriraj Chalisa Fast | Giriraj Chalisa | श्री गिरिराज चालीसा
All Kavach Lyrics → · All Shri Gopal videos in the library →